Créditos

COMPOSICIÓN Y LETRA
Sounds of Isha
Sounds of Isha
Autoría
Sri Adi Shankara
Sri Adi Shankara
Autoría

Letra

विनोदमोदमोदिता दयोदयोज्ज्वलान्तरा
निशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा
अखण्डगण्डदण्डमुण्डमण्डलीविमण्डिता
प्रचण्डचण्डरश्मिरश्मिराशिशोभिता शिवा
अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनी
प्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी
तदन्धकान्तकान्तकप्रियेशकान्तकान्तका
मुरारिकामचारिकाममारिधारिणी शिवा
अशेषवेषशून्यदेशभर्तृकेशशोभिता
गणेशदेवतेशशेषनिर्निमेषवीक्षिता
जितस्वशिञ्जिताऽलिकुञ्जपुञ्जमञ्जुगुञ्जिता
समस्तमस्तकस्थिता निरस्तकामकस्तवा
ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवा
मुदा बुधाः सुधां विहाय धावमानमानसाः
अधीनदीनहीनवारिहीनमीनजीवना
ददातु शम्प्रदाऽनिशं वशंवदार्थमाशिषम्
विलोललोचनाञ्चितोचितैश्चिता सदा गुणै
अपास्यदास्यमेवमास्यहास्यलास्यकारिणी
निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरीयसी
करोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी
करोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी
करोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी
Written by: Sounds of Isha, Sri Adi Shankara
instagramSharePathic_arrow_out

Loading...