Crédits

INTERPRÉTATION
Kruti
Kruti
Interprète
Uma Mohan
Uma Mohan
Chant
G. Gayathri Devi
G. Gayathri Devi
Chant
Saindhavi
Saindhavi
Chant
R. Ramya
R. Ramya
Chant
COMPOSITION ET PAROLES
Stephen Devassy
Stephen Devassy
Composition
Sangeeth
Sangeeth
Composition

Paroles

गङ्गातरंगरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम्
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम्
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम्
वामेनविग्रहवरेणकलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम्
भूताधिपं भुजगभूषणभूषितांगं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम्
पाशांकुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम्
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपंचबाणम्
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम्
पंचाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुंगवपन्नगानाम्
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम्
तेजोमयं सगुणनिर्गुणमद्वितीयं
आनन्दकन्दमपराजितमप्रमेयम्
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम्
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम्
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम्
आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम्
वाराणसीपुरपतिं भज विश्वनाथम्
वाराणसीपुरपतिं भज विश्वनाथम्
Written by: Sangeeth, Stephen Devassy
instagramSharePathic_arrow_out

Loading...