गाने

विदिताखिलशास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे हृदये कलये विमलं चरणं भव शङ्करदेशिक मे शरणम् करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् रचयाखिलदर्शनतत्त्वविदं भव शङ्करदेशिक मे शरणम् भवता जनता सुहिता भविता निजबोध विचारण चारुमते कलयेश्वरजीवविवेकविदं भव शङ्करदेशिक मे शरणम् भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता मम वारय मोह महाजलधिं भव शङ्करदेशिक मे शरणम् सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता अतिदीनमिमं परिपालय मां भव शङ्करदेशिक मे शरणम् जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः अहिमांशुरिवात्र विभासि गुरो भव शङ्करदेशिक मे शरणम् गुरुपुङ्गव पुङ्गव केतन ते समतामयतां न हि कोपि सुधीः शरणागतवत्सल तत्त्वनिधे भव शङ्करदेशिक मे शरणम् विदिता न मया विशदैककला न च किञ्चन काञ्चनमस्ति गुरो द्रुतमेव विधेहि कृपां सहजां भव शङ्करदेशिक मे शरणम् भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्) भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्) भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्) भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्)
Writer(s): Devassy Stephen Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out