Tekst Utworu

न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भैरवी न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम् न जानामि पूजां न च न्यासयोगं गतिस्त्वं गतिस्त्वं त्वमेका भैरवी प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित् न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भैरवी भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भैरवी न जानामि पुण्यं न जानामि तीर्थ न जानामि मुक्तिं लयं वा कदाचित् न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भैरवी विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भैरवी
Writer(s): Sounds Of Isha Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out