Создатели
ИСПОЛНИТЕЛИ
Pt. Rajan Misra
Исполнитель
Sajan Mishra
Исполнитель
Dr. Ramakant Shukla
Исполнитель
МУЗЫКА И СЛОВА
Govind Prasann Saraswati
Автор песен
Слова
ॐ नमः शिवाय
ॐ नमः शिवाय
ॐ नमः शिवाय
ॐ नमः शिवाय
ॐ नमः शिवाय
ॐ नमः शिवाय
गङ्गातरङ्गरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम्
नारायणप्रियमनङ्गमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम्
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम्
वामेन विग्रहवरेण कलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम्
भूताधिपं भुजगभूषणभूषिताङ्गं
व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्
पाशाङ्कुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम्
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपञ्चबाणम्
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम्
हरि ॐ भूर्भुवः स्वः नमस्ते रुद्र मन्यव उतो त इषवे नमः बाहुभ्यामुत ते नमः
नमः शम्भवाय च मयोभवाय च नम: शङ्कराय च मयस्कराय च नमः शिव च शिवतराय च
त्र्यम्बकं यजामहे
सुगन्धिं पुष्टिवर्धनम्
उर्वारुकमिव बन्धनान्
मृत्योर्मुक्षीय मामृतात्
सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम्
तेषाग्ं सहस्रयोजनेऽव धन्वानि तन्मसि
पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम्
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम्
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम्
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम्
मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम्
प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम्
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्
अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्
नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम्
चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम्
मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम्
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्
मदमपास्य चिरं हृदि संस्थितं मरणजन्मजरामयपीडितम्
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम्
हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कॄतम्
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम्
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा
पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम्
ॐ नमः शिवाय
ॐ नमः शिवाय
ॐ नमः शिवाय
Written by: Govind Prasann Saraswati

