album cover
Achyutashtakam
album cover
Achyutashtakam was released on December 13, 2021 by 2014679 Records DK as a part of the album Achyutashtakam - Single
ReleasedDecember 13, 2021
Label2014679 Records DK
LanguageEnglish
BPM86
Melodicness
Acousticness
Valence
Danceability
Energy

Lyrics

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम्
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम्
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे
विष्णवे जिष्णवे शाङ्खिने चक्रिणे
रुक्मिणिरागिणे जानकीजानये
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः
कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक
राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणः
लक्ष्मणेनान्वितो वानरौः सेवितो
ऽगस्तसम्पूजितो राघव पातु माम्
धेनुकारिष्टकानिष्टकृद्द्वेषिहा
केशिहा कंसहृद्वंशिकावादकः
पूतनाकोपकःसूरजाखेलनो
बालगोपालकः पातु मां सर्वदा
विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे
कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे
अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम्
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे
Written by: Suprabha Koratigere Venkatesh
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...