album cover
Emptiness Form
5
Downtempo
Emptiness Form was released on April 30, 2024 by 共生频率Symbiotic Frequency as a part of the album Symbiotic Frequency
album cover
Release DateApril 30, 2024
Label共生频率Symbiotic Frequency
Melodicness
Acousticness
Valence
Danceability
Energy
BPM84

Music Video

Music Video

Credits

PERFORMING ARTISTS
Gavintoo
Gavintoo
Performer
COMPOSITION & LYRICS
Gavintoo
Gavintoo
Arranger, Songwriter
PRODUCTION & ENGINEERING
Gavintoo
Gavintoo
Producer

Lyrics

प्रज्ञापारमिताहॄदय सूत्रं
॥ नमः सर्वज्ञाय ॥
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां
चरमाणो व्यवलोकयति स्म ।
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।
इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा
अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।
तस्माच्चारिपुत्र शून्यतायां न रूपं
न वेदना न संज्ञा न संस्कारा न विज्ञानं ।
न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो
यावन्न जरामरणं न जरामरणक्षयो
न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।
तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य
विहरत्यचित्तावरणः ।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्
आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।
तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो
महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।
सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः
तद्यथा ।
गते गते पारगते परसंगते बोधि सवाहा ॥
इति प्रञापारमिताहृदयं समाप्तम् ॥
Written by: Gavintoo
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...