Music Video

bilvashtakam-बिलवाष्टकम-Ramesh-bhai-ojha-रमेश- भाई-ओझा-शिव-भजन महाशिवरात्रि-भजन
Watch {trackName} music video by {artistName}

Featured In

Lyrics

बिल्वाष्टकम् त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् त्रिजन्मपाप-संहारम् एकबिल्वं शिवार्पणम् त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रै: कोमलै: शुभै: शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे शुद्धयन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् शालिग्रामशिलमेकां विप्राणां जातु अर्पयेत् सोमयज्ञ-महापुण्यम् एकबिल्वं शिवार्पणम् दन्तिकोटिसहस्त्राणि वाजपेयशतानि च कोटिकन्या-महादानम् एकबिल्वं शिवार्पणम् लक्ष्म्या: स्तनत उत्पन्नं महादेवस्य च प्रियम् बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् अघोरपापसंहारम् एकबिल्वं शिवार्पणम् मूलतो ब्रह्मरूपाय, मध्यतो विष्णुरूपिणे अग्रत: शिवरूपाय ह्येकबिल्वं शिवार्पणम् बिल्वाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ सर्वपापविनिर्मुक्त: शिवलोकमवाप्नुयात् इति बिल्वाष्टकं सम्पूर्णम्
Writer(s): Pujya Bhaishree Rameshbhai Ojha Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out