Lyrics

नमामीश्वरं सच्-चिद्-आनन्द-रूपं लसत्-कुण्डलं गोकुले भ्राजमनम् नमामीश्वरं सच्-चिद्-आनन्द-रूपं लसत्-कुण्डलं गोकुले भ्राजमनम् यशोदा-भियोलूखलाद् धावमानं परामृष्टम् अत्यन्ततो द्रुत्य गोप्या यशोदा-भियोलूखलाद् धावमानं परामृष्टम् अत्यन्ततो द्रुत्य गोप्या रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम् कराम्भोज-युग्मेन सातङ्क-नेत्रम् रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम् कराम्भोज-युग्मेन सातङ्क-नेत्रम् मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे स्व-घोषं निमज्जन्तम् आख्यापयन्तम् इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे स्व-घोषं निमज्जन्तम् आख्यापयन्तम् तदीयेषित-ज्ञेषु भक्तैर् जितत्वं पुनः प्रेमतस् तं शतावृत्ति वन्दे तदीयेषित-ज्ञेषु भक्तैर् जितत्वं पुनः प्रेमतस् तं शतावृत्ति वन्दे वरं देव मोक्षं न मोक्षावधिं वा न चन्यं वृणेऽहं वरेषाद् अपीह वरं देव मोक्षं न मोक्षावधिं वा न चन्यं वृणेऽहं वरेषाद् अपीह इदं ते वपुर् नाथ गोपाल-बालं सदा मे मनस्य् आविरास्तां किम् अन्यैः इदं ते वपुर् नाथ गोपाल-बालं सदा मे मनस्य् आविरास्तां किम् अन्यैः इदं ते मुखाम्भोजम् अत्यन्त-नीलैर् वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या इदं ते मुखाम्भोजम् अत्यन्त-नीलैर् वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे मनस्य् आविरास्ताम् अलं लक्ष-लाभैः मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे मनस्य् आविरास्ताम् अलं लक्ष-लाभैः नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःख-जालाब्धि-मग्नम् नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःख-जालाब्धि-मग्नम् कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत् त्वया मोचितौ भक्ति-भाजौ कृतौ च कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत् त्वया मोचितौ भक्ति-भाजौ कृतौ च तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मे स्थि दामोदरेह तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मे स्थि दामोदरेह नमस्तेस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने त्वदीयोदरायाथ विश्वस्य धाम्ने नमस्तेस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने त्वदीयोदरायाथ विश्वस्य धाम्ने नमो राधिकायै त्वदीय-प्रियायै नमोऽनन्त-लीलाय देवाय तुभ्यम् नमो राधिकायै त्वदीय-प्रियायै नमोऽनन्त-लीलाय देवाय तुभ्यम् नमो राधिकायै त्वदीय-प्रियायै नमोऽनन्त-लीलाय देवाय तुभ्यम् नमामीश्वरं सच्-चिद्-आनन्द-रूपं लसत्-कुण्डलं गोकुले भ्राजमनम्
Writer(s): Agam Aggarwal Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out