album cover
Mahalkshmi Ashtakam
album cover
Mahalkshmi Ashtakam was released on January 1, 2004 by Kosmic Music as a part of the album Sacred Chants, Vol. 2
January 1, 2004
LabelKosmic Music
BPM136
Melodicness
Acousticness
Valence
Danceability
Energy

Lyrics

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते
नमस्ते गरुडारूढे कोलासुरभयङ्करि
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते
महादेव्यै च विद्महे
विष्णु पत्नी च धीमहि
तन्नो लक्ष्मी प्रचोदयात्
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते
महादेव्यै च विद्महे
विष्णु पत्नी च धीमहि
तन्नो लक्ष्मी प्रचोदयात्
आद्यन्तरहिते देवि आद्यशक्ति महेश्वरि
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते
स्थूलसूक्ष्ममहारौद्रे महाशक्ते महोदरे
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते
महादेव्यै च विद्महे
विष्णु पत्नी च धीमहि
तन्नो लक्ष्मी प्रचोदयात्
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते
श्वेताम्बरधरे देवि नानालङ्कारभूषिते
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते
महादेव्यै च विद्महे
विष्णु पत्नी च धीमहि
तन्नो लक्ष्मी प्रचोदयात्
Written by: Sangeeth, Stephen Devassy
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...