album cover
Shree Suktham
album cover
Shree Suktham was released on January 1, 2005 by Kosmic Music as a part of the album Sacred Chants
January 1, 2005
LabelKosmic Music
BPM180
Melodicness
Acousticness
Valence
Danceability
Energy

Music Video

Music Video

Lyrics

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम्
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः
उपैतु मां देवसखः कीर्तिश्च मणिना सह
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम्
मनसः काममाकूतिं वाचः सत्यमशीमहि
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः
कर्दमेन प्रजाभूता मयि सम्भव कर्दम
श्रियं वासय मे कुले मातरं पद्ममालिनीम्
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे
नि च देवीं मातरं श्रियं वासय मे कुले
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम्
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके
शरण्ये त्र्यम्बके देवी नारायणि नमोऽस्तु ते
नारायणि नमोऽस्तु ते
नारायणि नमोऽस्तु ते
ॐ श्री महालक्ष्म्यै च विद्महे
विष्णु पत्न्यै च धीमहि
तन्नो लक्ष्मी प्रचोदयात्
ॐ धनुर्धराय विद्महे
सर्व सिद्धयये च धीमहि
तन्नो धरा प्रचोदयात्
ॐ शान्तिः शान्तिः शान्तिः
Written by: Sangeeth, Vinit Pillai
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...