album cover
Shanti Path
2,289
New Age
Shanti Path was released on April 27, 2008 by Mystica Music as a part of the album Moksha (Vedic Chants By 21 Brahmins) [feat. Kanchman Babbar]
album cover
Release DateApril 27, 2008
LabelMystica Music
Melodicness
Acousticness
Valence
Danceability
Energy
BPM160

Music Video

Music Video

Credits

PERFORMING ARTISTS
Brahmins
Brahmins
Performer
COMPOSITION & LYRICS
Ram Dixit
Ram Dixit
Songwriter

Lyrics

ॐ शं नो मित्रः शं वरुणः
शं नो भवत्वर्यमा
शं नो इन्द्रो बृहस्पतिः
शं नो विष्णुरुरुक्रमः
नमो ब्रह्मणे
नमस्ते वायो
त्वमेव प्रत्यक्षं ब्रह्मासि
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि
ॠतं वदिष्यामि
सत्यं वदिष्यामि
तन्मामवतु
तद्वक्तारमवतु
अवतु माम्
अवतु वक्तारम्
ॐ शान्तिः शान्तिः शान्तिः
ॐ शं नो मित्रः शं वरुणः
शं नो भवत्वर्यमा
शं नो इन्द्रो बृहस्पतिः
शं नो विष्णुरुरुक्रमः
नमो ब्रह्मणे
नमस्ते वायो
त्वमेव प्रत्यक्षं ब्रह्मासि
त्वामेव प्रत्यक्षं ब्रह्मावादिषम्
ऋतमवादिषम्
सत्यमवादिषम्
तन्मामावीत्
तद्वक्तारमावीत्
आवीन्माम्
आवीद्वक्तारम्
ॐ शान्तिः शान्तिः शान्तिः
ॐ सह नाववतु
सह नौ भुनक्तु
सह वीर्य करवावहै
तेजस्विनावधीतमस्तु मा विद्विषावहै
ॐ शान्तिः शान्तिः शान्तिः
ॐ नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो
वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मामामृषयो
मन्त्रकृतो मन्त्रपतयः परादुर्माऽहमृषीन्मन्त्रकृतो मन्त्रपतीन्परादां
वैश्वदेवीं वाचमुद्यासं शिवामदस्तांजुष्टां
देवेभ्यः शर्म मे द्यौः शर्मपृथिवी शर्म विश्वमिदं जगत्
शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती
भूतं वदिष्ये भुवनं वदिष्ये
तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये
तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां
भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मृत्योर्मापातं
प्राणापानौ मा मा हासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु
वदिष्यामि मधुमती देवेभ्यो वाचमुद्यासं शुश्रूषेण्यां
मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु
ॐ शान्तिः शान्तिः शान्तिः
ॐ तच्छं योरावृणीमहे
गातुं यज्ञाय गातुं यज्ञपतये
दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः
ऊध्वं जिगातु भेषजम्
शं नो अस्तु द्विपदे
शं चतुष्पदे
ॐ शान्तिः शान्तिः शान्तिः
Written by: Ram Dixit
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...