積分

演出藝人
Participants of South India Female Choir
Participants of South India Female Choir
演出者
詞曲
M S Madhukar
M S Madhukar
編曲
Sai Madhukar
Sai Madhukar
編曲

歌詞

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते
नमस्ते गरुडारूढे कोलासुरभयंकरि
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे
महापापहरे देवि महालक्ष्मि नमोऽस्तुते
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते
श्वेताम्बरधरे देवि नानालङ्कारभूषिते
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा
एककाले पठेन्नित्यं महापापविनाशनम्
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा
Written by: Sandhya
instagramSharePathic_arrow_out

Loading...