Music Video

Shree Venkatesha Mangalashasanam
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
G. Gayathri Devi
G. Gayathri Devi
Vocals
Saindhavi
Saindhavi
Vocals
Priya
Priya
Vocals
R. Shruti
R. Shruti
Vocals

Lyrics

श्रियः कान्ताय कल्याणनिधये निधयेஉर्थिनाम् । श्रीवेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥ लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे । चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥ श्रीवेङ्कटाद्रि शृङ्गाग्र मङ्गलाभरणाङ्घ्रये । मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ॥ ३ ॥ सर्वावय सौन्दर्य सम्पदा सर्वचेतसाम् । सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४ ॥ नित्याय निरवद्याय सत्यानन्द चिदात्मने । सर्वान्तरात्मने शीमद्-वेङ्कटेशाय मङ्गलम् ॥ ५ ॥ स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे । सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ ६ ॥ परस्मै ब्रह्मणे पूर्णकामाय परमात्मने । प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ ७ ॥ आकालतत्त्व मश्रान्त मात्मना मनुपश्यताम् । अतृप्त्यमृत रूपाय वेङ्कटेशाय मङ्गलम् ॥ ८ ॥ प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना । कृपयाஉஉदिशते श्रीमद्-वेङ्कटेशाय मङ्गलम् ॥ ९ ॥ दयाஉमृत तरङ्गिण्या स्तरङ्गैरिव शीतलैः । अपाङ्गै स्सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥ स्रग्-भूषाम्बर हेतीनां सुषमाஉஉवहमूर्तये । सर्वार्ति शमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११ ॥ श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करिणीतटे । रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२ ॥ श्रीमत्-सुन्दरजा मातृमुनि मानसवासिने । सर्वलोक निवासाय श्रीनिवासाय मङ्गलम् ॥ १३ ॥ मङ्गला शासनपरैर्-मदाचार्य पुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४ ॥
Writer(s): Devassy Stephen Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out