Top Songs By G. Gayathri Devi
Similar Songs
Credits
PERFORMING ARTISTS
G. Gayathri Devi
Vocals
Saindhavi
Vocals
Priya
Vocals
R. Shruti
Vocals
Lyrics
श्रियः कान्ताय कल्याणनिधये निधयेஉर्थिनाम् ।
श्रीवेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥
लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे ।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥
श्रीवेङ्कटाद्रि शृङ्गाग्र मङ्गलाभरणाङ्घ्रये ।
मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ॥ ३ ॥
सर्वावय सौन्दर्य सम्पदा सर्वचेतसाम् ।
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४ ॥
नित्याय निरवद्याय सत्यानन्द चिदात्मने ।
सर्वान्तरात्मने शीमद्-वेङ्कटेशाय मङ्गलम् ॥ ५ ॥
स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ ६ ॥
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ ७ ॥
आकालतत्त्व मश्रान्त मात्मना मनुपश्यताम् ।
अतृप्त्यमृत रूपाय वेङ्कटेशाय मङ्गलम् ॥ ८ ॥
प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपयाஉஉदिशते श्रीमद्-वेङ्कटेशाय मङ्गलम् ॥ ९ ॥
दयाஉमृत तरङ्गिण्या स्तरङ्गैरिव शीतलैः ।
अपाङ्गै स्सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥
स्रग्-भूषाम्बर हेतीनां सुषमाஉஉवहमूर्तये ।
सर्वार्ति शमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११ ॥
श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करिणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२ ॥
श्रीमत्-सुन्दरजा मातृमुनि मानसवासिने ।
सर्वलोक निवासाय श्रीनिवासाय मङ्गलम् ॥ १३ ॥
मङ्गला शासनपरैर्-मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४ ॥
Writer(s): Devassy Stephen
Lyrics powered by www.musixmatch.com