Listen to Guru Ashtakam by Seven

Guru Ashtakam

Seven

Devotional & Spiritual

834 Shazams

Lyrics

शरीरं सुरूपं तथा वा कलत्रं यशश्र्चारु चित्रं धनं मेरुतुल्यं गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||1 कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम् गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||2 षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 3 विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||4 क्षमामण्डले भूपभूपालवृन्दैः सदासेवितं यस्य पादारविन्दं गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||5 यशो मे गतं दिक्षु दानप्रतापा जगद्वस्तु सर्वं करे यत्प्रसादात् गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं || 6 न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तं गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||7 अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं ततः किं ततः किं ततः किं ततः किं ||8
Writer(s): Devassy Stephen Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out