album cover
Vishwanathashtakam
album cover
Vishwanathashtakam was released on January 1, 2004 by Kosmic Music as a part of the album Sacred Chants, Vol. 2
January 1, 2004
LabelKosmic Music
Melodicness
Acousticness
Valence
Danceability
Energy

Music Video

Music Video

Lyrics

ॐ
गङ्गातरंगरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम्
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम्
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम्
वामेनविग्रहवरेणकलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम्
भूताधिपं भुजगभूषणभूषितांगं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम्
पाशांकुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम्
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपंचबाणम्
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम्
पंचाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुंगवपन्नगानाम्
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम्
तेजोमयं सगुणनिर्गुणमद्वितीयं
आनन्दकन्दमपराजितमप्रमेयम्
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम्
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम्
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम्
आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम्
वाराणसीपुरपतिं भज विश्वनाथम्
वाराणसीपुरपतिं भज विश्वनाथम्
Written by: Sangeeth, Stephen Devassy
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...